SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२९॥ द्वाच्यं यावद्गुणश्रेणीशिरः । अत ऊर्ध्व तूत्कीर्यमाणमेव दलिकं प्राप्यते, न तत्प्रक्षेपाधारभूतमिति न तत् क्वापि प्रक्षिषति, चरमे च स्थि-15 तिखण्डे उत्कीर्ण सत्यसौ क्षपकः कृतकरण इति परिभाष्यते । तथा चाह-"कयकरणद्धाइ पछिमे हाइ" पश्चिम चरमे खण्डे उत्कीर्णे | उपशमनाकृतकरणाद्धायां वर्तते कृतकरणो भवतीत्यर्थः। अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणां गतीनामन्यतम. करणम् स्यां गतावुत्पद्यते । लेश्यायामपि पूर्व शुक्लायामेवासीत , सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु च-16 तसृष्वपि गतिषु भवतीत्यागतः। उक्तं च -"पट्टवगो उ मणूसो निद्र्वगो होइ चउसु वि गईसु"। यदि पुनस्तदानीं कालं न करोति | तदा वेदितसम्यक्त्वशेषः क्षायिकसम्यग्दृष्टिः सन्नुपशमश्रेणिं क्षपकश्रेणिं वा समारोहति । तत्र यो वैमानिकेष्वेव बद्धायुष्कः क्षीण यन्त्राणि सप्तकः स उपशमश्रेणिमारोहति, अबद्धायुष्कस्तु क्षपकश्रेणिं, अन्यगतिबद्धायुष्कस्तु न कामपि श्रेणिमारभते श्रेणिकादिवदिति ज्ञेयम् । अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यते-तृतीये चतुर्थे वा । तथाहि-यदि स्वर्गे नरके वा गच्छति | तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि चासौ तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते तदाऽवश्यमसंख्येयवर्षायुष्केष्वेव न संख्येयवर्षायुकेषु, ततस्तद् भवानन्तरं देवभवं, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् , उक्तं च पञ्चसंग्रहे-"तइयच उत्थे तम्मि व भवम्मि सिज्झन्ति दसणे खीणे । जं देवणिरयसंखाउचरमदेहेसु ते हुति ॥१॥' अत्र तृतीयभवे मोक्षगमने देवनारकेषु मध्ये उत्पत्तिहेतुश्चतुर्थभवे च मोक्षगमनेऽसंख्येयवर्षायुष्केषूत्पत्तिस्तद्भवमोक्षगमने | च चरमदेहत्वमिति क्रमेण योजनीयम् । इदं च प्रायोवृत्योक्तमिति सम्भाव्यते, यतः क्षीणसप्तकस्य कृष्णस्य पश्चमभवेऽपि मोक्षगमनं श्रयते । उक्तं च-"नरयाउ नरभवम्मि देवो होऊण पंचमे कप्प । तत्तो चुओ समाणो बारसमो अममतित्थयरो ॥१॥" इति । इत्थमेव ॥२९॥ दुःप्रसहादीनामपि धायिकसम्यक्त्वमागमोक्तं युज्यत इति यथागमं विभावनीयम् ॥३२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy