SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ Social | ख्येयान् भागान् खण्डयति । अनेन विधिना स्थितिखण्डेषु प्रभूतेषु परिगलितेषु सत्सु मिथ्यात्वमुदयावलिकारहितं सकलमपि क्षीगं, आवलिकामानं तु तिष्ठति । सम्यक्त्वसम्यमिथ्यात्वयोस्तु पल्योपमासंख्येयभागमात्रशेषीभृतं तिष्ठति । अनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यमिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात्स्वस्थाने इति । यदपि मिथ्यात्वदलिकमावलिकामात्रमुद्धरितं तिष्ठति तदपि स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति, तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान् भागान् खण्डयत्येक मुश्चति, ततस्तस्याप्यसंख्येयान् भागान् खण्डयत्येक मुश्चति, एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यमिथ्यात्वमावलिकामानं तिष्ठति, तदानीं च सम्यक्त्वस्थितिमत्कर्माष्टवर्षप्रमाणं भवति । स चाष्टवर्षप्रमाणसम्य. | क्त्वसत्कर्मा निश्चयनयमतेन सकलमत्यूहविलयादर्शनमोहनीयक्षपक उच्यते । ततो निश्चयन पाभिमतक्षपकत्वभवनाद्ध सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणमुत्किरति-घातयतीत्यर्थः, तद्दलिक तूदयसमयादारभ्य प्रक्षिपति, तञ्चैवम्-उदयसमये स्तोकं, ततो द्विती| यसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावद्गुणश्रेणीशिरः, तत ऊधं विशेषहीनं विशेषहीनं तावद्याव चरमा स्थितिः, ततो द्वितीयं स्थितिखण्डमन्तर्मुहूर्तप्रमाणं पूर्वस्मादसंख्यगुणमुस्किरति, उत्कीर्य च प्रागुक्तप्रकारेणोदयसमयादारभ्य निक्षिपति, एवं पूर्वस्मात्पूर्वस्मादसंख्येयगुणान्यान्तमौहूर्तिकान्यनेकानि स्थितिखण्डान्युत्किरति निक्षिपति च तावद्यावद्विचरमं स्थि| तिखण्डम् । विचरमाच्च स्थितिखण्डादन्तिमं स्थितिखण्डं संख्येयगुणं, तस्मिँश्चान्तिमे स्थितिखण्डे खण्ड्यमाने संख्येयभागं गुणश्रेण्याः खण्डयति, अन्याश्च तदुपरितनीः संख्येयगुणाः स्थितीः तावन्मानत्वादेव चरमखण्डस्प, उत्कीर्य च तद्दलिकमुदयसमयादारभ्यासंख्येयगुणनया प्रक्षिपति, तद्यथा-उदयसमये स्तोकं, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं ताव 02
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy