SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः उपशमनाकरणम् ॥२८॥ दर्शनमोह क्षपणा वमारभते-प्रथमं स्थितिखण्डं बृहत्तरमुरलयति, ततो द्वितीयं विशेषहीनं, ततोऽपि सृतीयं विशेषहीनं, एवं तावद्वाच्यं यावदपूर्वकरणचरमसमयः । अपूर्वकरणप्रथमसमये च यस्थितिकर्मासीत्तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । एवं स्थितिवन्धोऽपि वेदिः तव्यः, अपूर्वकरणस्य प्रथमसमये यावान् स्थितिबन्ध आसीत्तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो भवतीत्यर्थः।। ततोऽनिवृत्तिकरणे प्रविशति । तत्र च प्रविष्टः सन् प्रथमसमयादेवारभ्यापूर्वी गुणश्रेणिमपूर्व स्थितिघातमपूर्व रसघातमपूर्व च स्थितिबन्धं कर्तुमारभते, अनिवृत्तिकरणप्रथमसमय एव च दर्शनत्रिकस्य देशोपशमनानिधत्तिनिकाचना व्यवच्छिद्यन्ते, देशोपशमनादीनां | त्रयाणां करणानां नैकमपि दर्शनत्रिकस्य ततः प्रभृति प्रवर्तते इत्यर्थः। किंच तत्रयस्य स्थितिसत्कर्मानिवृत्तिकरणप्रथमसमयादारभ्य | स्थितिघातादिभिर्घात्यमान स्थितिखण्डसहस्रेषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम्, ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपममात्रप्रमाणं भवति । एतच्च चूर्णिकृन्मतेनोक्तं । पञ्चसंग्रहकृन्मते तु पल्योपमसंख्येयभागमा , तदुक्तं पञ्चसंग्रहे-''ठिइखण्डसहस्साई एक्कक्के अन्तरम्मि गच्छन्ति । पलिओवमसंखंसे दसणसंते तओ जाए ॥१॥'' इत्यादि । 'एकैकस्मिन्नन्तरे' इति असंज्ञिपश्चन्द्रियचतुरिन्द्रियादिसमानस्थितिसत्कर्मभवनानामपान्तराले, तत एकं संग्ख्येयतमं भागं मुक्त्वा शेषं सर्वमपि त्र | याणामपि दर्शनमोहनीयानां विनाशयति, ततस्तस्यापि प्राग्मुक्तस्य संख्येयतमभागस्यक संख्येयभागं मुक्त्वा शेषान् संख्येयान् भागान् विनाशयति, एवं स्थितिघाताः सहस्रशो ब्रजन्ति, तदनन्तरं च मिथ्यात्वस्यासंख्येयान् भागान् , सम्यक्त्वसम्पमिथ्यात्वयोस्तु सं ॥२८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy