SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ ६ACIROISODE | होई त्ति' पश्चिम चरमखण्डे उत्कीर्ण कृतकरणाद्धायां वर्तते कृतकरणो भवतीत्यर्थः । अस्यां कृतकरणाद्वायां वर्तमानः कश्चित्कालमपि | | कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि च पूर्व शुक्ललेश्यायामासीत् , सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु चतसृष्वपि गतिषु भवति । उक्तं च-"पट्ठवगो य मणुस्सो निट्ठवगो च उसु वि गई सु"। अथोच्येत क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यते-तृतीये चतुर्थे वा भवे । तथाहि-यदि देवगति नरकगतिं वा संक्रामति ततो देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति । अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, न संख्येयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवम् , ततो | मोक्षं यातीति चतुर्थे भवे मोक्षगमनम् । उक्तं च-"तइयचउत्थे तम्मि व भवम्मि सिझंति दसगे खीणे । जं देवनिरई असंखाउचर|मदेहेसु ते होंति" || तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्चिद्वैमानिकेष्वेव, बद्धायुकः चारित्रमो. | हनीयस्योपशमनार्थमप्युद्यतते । अथाबद्धायुष्कस्ततः सप्तकक्षयानन्तरं क्षपकश्रेणिमेव प्रतिपद्यते ॥३२॥ | (उ०)-अथ दर्शनमोहनीयक्षपणाविधिमाह-इह दर्शनमोहनीयक्षपणाया आरम्भको मनुष्यो जिनकालको-जिनकालसम्भवी, जिनकालश्च प्रथमतीर्थकरविहरणकालादिर्जम्बूस्वामिकेवलोत्पत्तिपर्यवसानो ज्ञातव्यः । तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षभनाराच| संहननश्च भवति । दर्शनमोहेऽपि च क्षपणा तथैव वक्तव्या यथा प्रागनन्तानुवन्धिनामुक्ता । इत्थं सामान्येनातिदिष्टऽपि य इह विशेषः स उच्यते-इह दर्शनमोहनीयक्षपणायोद्यतो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तानि च प्रागिब वक्तव्यानि, नवरमपूर्वकरणस्य प्रथमसमय एवानुदितयोमिथ्यात्वसम्यमिथ्यात्वयोर्दलिकं गुणसंक्रमेण सम्यक्त्वे प्रक्षिपति । उद्वलनासंक्रममपि तयोरे RSORSAREES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy