________________
कर्मप्रकृतिः
॥२७॥
Prasa
स्थितिघाताः सहस्रशो व्रजन्ति । तदनन्तरं च मिथ्यात्वस्यासंख्येयान् भागान् खण्डयति, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् | भागान् खण्डयति । तत एवं स्थितिखण्डेषु प्रभूतेषु गतेषु सत्सु मिथ्यात्वस्य दलिकमावलिकामात्रं जातम्, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु पल्योपमासंख्येय भागमात्रम् । अमूनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वत्कानि सम्यक्त्व सम्यमिध्यात्वयोः | प्रक्षिपति, सम्यमिध्यात्व सत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात् स्वस्थाने इति । तदपि च मिध्यात्वदलिकमावलिकामात्रं स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति । तदनन्तरं सम्यक्त्वसम्य मिध्यात्वयोरसंख्येयान् भागान् खण्डयति, एकोऽवशिष्यते । ततस्तस्याप्यसंख्येयान् भागान् खण्डयति, एकं मुञ्चति । एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यङ् मिथ्यात्वमावलिकामात्रं जातम् । तदानीं च सम्यक्त्वस्य स्थितिसत्कर्म अष्टवर्षप्रमाणं भवति । तस्मिन्नेव च काले सकल प्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीयक्षपक उच्यते । अत ऊर्ध्वं सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणमुत्किरति । तद्दलिकं हृदयसमयादारभ्य प्रक्षिपति । केवलमुदयसमये सर्वस्तोकम्, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वक्तव्यं यावद्गुणश्रेणीशिरः । तत ऊर्ध्व तु विशेषहीनं विशेषहीनं तावद्यावच्चरमा स्थितिः । एवमान्तमौहूर्तिकान्यनेकानि खण्डान्युत्किरति निक्षिपति च तावद्यावद्विचरमं स्थितिखण्डम् । द्विचरमात्तु खण्डाच्चरमखण्डं संख्येयगुणम् । तदपि च गुणश्रेण्याः संख्येयतमो भागः । अन्याश्च तदुपरि संख्येयगुणाः स्थितयः । उत्कीर्य च तद्दलिकमुदयसमयादारभ्या संख्येयगुणतया प्रक्षिपति । तद्यथा - उदयसमये स्तोकम्, ततो द्वितीयसमयेऽसंख्येयगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्येय गुणम्, एवं तावद्वाच्यं यावद्गुणश्रेणिशिरः । अत ऊर्ध्वमुत्कीर्यमाणमेव चरमस्थितिखण्डं ततो न तत्र प्रक्षिपति । चरमे च स्थितिखण्डे उत्कीर्णे सत्यसौ क्षपकः कृतकरण इत्युच्यते । तथा चाह - 'कयकरणद्धाए पच्छिमे
aava
उपशमनाकरणम्
दर्शन मोह
क्षपणा
॥२७॥