________________
ScieGODDC ROADIES
न्धिनामुक्ता । तत्र यद्यप्येवं सामान्येनोक्तं तथापि किञ्चिद्विशेषतोऽभिधीयते-इह दर्शनमोहनीयक्षपणार्थमभ्युद्यतस्त्रीणि करणान्यारभते । तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । एतानि च त्रीण्यपि करणानि प्रागिव वक्तव्यानि, नवरमपूर्वकरणस्य प्रथमसमये एवानुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिकं गुणसंक्रमेण सम्यक्त्वे प्रक्षिपति । उदलनासंक्रममपि तयोरेवमारभते , तद्यथा-प्रथमस्थितिखण्डं बृहत्तरमुरलयति, ततो द्वितीयं विशेषहीनम् , ततोऽपि तृतीयं विशेषहीनम् , एवं तावद्वक्तव्यं यावदपूर्वकरण चरमसमयः ।। अपूर्वकरणप्रथमसमये च यत् स्थितिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । ततोऽनिवृत्तिकरणे प्रविशति । अत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति । अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमनानिधत्तिनिकाचना व्यवच्छिद्य-12 न्ते । दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्म अनिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्धात्यमानं स्थितिखण्डसहस्रेषु गते| वसंज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति। ततोऽ| पि तावन्मात्रेषु खण्डेषु त्रीन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि || | तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपममात्रप्रमाणं भवति । एतच्चूर्णिका| रमतेनोक्तम् । पश्चसंग्रहकारमतेन तु पल्योपमसंख्येयभागमात्रम् । तदुक्तं पञ्चसंग्रहे-"ठितिखण्डसहस्साई पक्केक्के अंतरम्मि ग च्छन्ति । पलिओवमसंखसे दसणसंते तओ जाए ॥१॥ (संखेजम)संखेजा भागा खण्डे इत्यादि" । 'एकैकस्मिन्नन्तरे' इति असंज्ञिपञ्चेन्द्रियचतुरिन्द्रियादिसमानस्थितिसत्कर्मभावनानामपान्तराले इति । तत एक संख्येयतमं भागं मुक्त्वा शेषं सर्वमपि त्रयाणां दर्शनमोहनीयानां विनाशयति । ततस्तस्यापि प्राग्मुक्तसंख्येयभागस्यैकं संख्येयभागं मुक्त्वा शेषान् संख्येयान् भागान् विनाशयति । एवं