SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ 22 प्रकृतिरूपतावस्थापनेन विनाशयति । अनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमानुविद्धेनोद्वलनासंक्रमेण निरवशेषान् विनाशयति, किं त्वयस्तादावलिकामात्रं मुञ्चति, तदपि च स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणामपि स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किं तु स्वभावस्थ एव भवति, चतुर्विंशतिसत्कर्मा । तदेवमुक्ताऽनन्तानुबन्धिनां क्षपणा । ये त्वाचार्या अनन्तानुबन्धिनामुपशमनां मन्यन्ते तन्मतेनायमुपशमनाविधिर्द्रष्टव्यः-अविरतसम्यग्दृष्टिदेशविरतममत्त संयतानामन्यतमोऽनन्तानुबन्ध्युपशमनां चिकीर्षुः प्रागुक्तक्रमेण यथाप्रवृत्तकरणमपूर्वकरणं च करोति । केवलमिहापूर्वकरणे गुणश्रेणिरन्तर्मुहूर्तप्रमाणानां स्थितीनामुपरि याः स्थितयस्तन्मध्याद्दलिकं गृहीत्वोदयावलिकाया उपरितनीषु स्थितिषु प्रतिसमयमसंख्येयगुणनया निक्षेपरूपा द्रष्टव्या, शेषं तथैव । ततोऽनिवृत्तिकरणे प्रविष्टोऽनिवृत्तिकरणाद्वायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिन् भागेऽवतिष्ठमा | नेऽनन्तानुबन्धिनामधस्तादावलि कामात्रं मुक्त्वाऽन्तर्मुहूर्त्त प्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्वासमे नान्तर्मुहुर्त्तप्रमाणेन कालेन करोति । | अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानासु प्रक्षिपति । प्रथमस्थितिगतं च दलिकमावलिकामात्रं वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । अन्तरकरणे च कृते सति द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते । तद्यथा - प्रथमसभये स्तोकमुपशमयति, द्वितीयसमयेऽसंख्येयगुणं, तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावदन्तर्मुहूर्त्तम् । एतावता च कालेन साकल्येनानन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम यथारेणुनिकरः सलिलबिन्दुनिवहैरभिषिन्याभिषिच्य दुघणादिभिर्निष्कुट्टितो निष्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिव्य परिषिच्यानिवृत्तिकरणरूप दुघणनिष्कुट्टितः सं क्रमणोदयोदीरणानिधत्तिनिकाचना करणानामयोग्यो भवति । तदेवमाचार्यान्तरमतेनानन्तानुबन्धिनामुपशमनाऽप्यभिहिता ॥ ३१ ॥ 52
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy