________________
उप्पादेतस्स तिण्ह वि करणाण लक्षणं भणियं तहा अणंताणुबन्धिविणासणे वि। णवरि अपुवकरणस्स पढमसमते अणंताणुबन्धीणं गुणसंकमो आढति। उव्वल(णाल)कवणेणं अणियट्टिकरणे वद्यमाणो णिरवसेसे | विणासेति । ततो अणताणुबंधिविसंजोतितो अन्तोमुहत्तण द्वितिघातरसघायगुणसेढी एतेहिं रहितो सभा.
वत्थो होति ॥३१॥ I (मलय०)-तदेवमुक्तो देशविरतिसर्वविरतिलाभः । सम्प्रत्यनन्तानुबन्धिनां विसंयोजना भण्यते । अथ चारित्रमोहनीयोपशमना- 10 |धिकारे किमर्थमनन्तानुबन्धिनां विसंयोजनाऽभिधीयते ? उच्यते-इह यश्चारित्रमोहनीयमुपशमयितुमारभते सोऽवश्यमनन्तानुबन्धिनो | विसंयोजयति, तेन तद्विसंयोजना नियमादिह वक्तव्या । तांश्वानन्तानुबन्धिनः श्रेणिमप्रतिपद्यमाना अपि वेदकसम्यग्दृष्टयश्चतुर्गतिका विसंयोजयन्ति । तथा चाह-'चउगइय'त्ति-चतुर्गतिका-नरयिकतियङमनुष्यदेवाः सर्वाभिः पर्याप्तिभिः पर्याप्ताः त्रयोऽपि-अविरतदेशविरतसर्वविरताः । तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरतास्तियश्चो मनुष्या वा, सर्वविरता मनुष्या एव, 'संयोजनान्' | अनन्तानुबन्धिनो वियोजयन्ति-विनाशयन्ति । किंविशिष्टाः सन्त इत्याह-करणैत्रिभिः सहिताः । करणानि प्रागिव वक्तव्यानि । नवरमिहान्तरकरणं न वक्तव्यम् , उपशमो वा । उपशमश्चानन्तानुबन्धिनां न भवतीति गाथाक्षरार्थः । भावनात्वियम्-अनन्तानुबन्धिनः क्षपयितुं यथाप्रवृत्तादीनि त्रीणि करणानि प्रारभन्ते । करणवक्तव्यता च सर्वापि प्रागिबात्रापि वेदितव्या । नवरमिहापूर्वकरणे प्रथमसमयादेवारभ्यानन्तानुवन्धिनां गुणसंक्रमोऽपि वक्तव्यः । तद्यथा-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्धिनां दलिकं शेषकषायरूपपरमकृतौ स्तोकं संक्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणमित्येवं वक्तव्यम् । एष गुणसंक्रमः।
SCIEDOCRCE: