SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ णामात् सर्वविरतिपरिणामाद्वा 'गताः-परिभ्रष्टास्ते 'अकरणाः'-करणरहिता एव भूयोऽपि तां पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यन्ते । एतदुक्तं भवति-ये आभोगमन्तरेण कथश्चित् परिणामहासतो देशविरता अविरतिं गताः, सर्वविरताश्च देशविरतिमविरतिं वा गताः, ते परिणामवशेन भूयोऽपि तामेव पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकृतकरणा एवं प्रतिपद्यन्ते। ये पू. नराभोगतो देशविरतेः सर्वविरतेर्वा प्रतिपतिताः, आभोगेनैव च मिथ्यात्वं गताः, ते पुनरपि जघन्यतोऽन्तमुहूतन कालेन उत्कर्षतः प्रभृतेन कालेन देशविरतिं सर्वविरतिं वा प्रतिपत्तुकामा उक्तप्रकारेण करणपुरःसरमेव प्रतिपद्यन्ते । तथा यावद्देशविरतिं सर्वविरति वा प्रतिपालयति तावद्गणश्रेणिमपि समये समय करोति । नवरं प्रवर्धमानपरिणामस्तत्तत्परिणामानुसारेण कदाचिदसंख्येयभागाधिका कदाचित्संख्येयभागाधिकां कदाचित्संख्येयगुणां कदाचिदसंख्येयगुणां करोति । हीयमानपरिणामस्तूक्तमकारेण हीयमानां, अवस्थितपरिणामस्तु तावन्मात्रामिति । एषा चैवं दलिकापेक्षया द्रष्टव्या । कालतः पुनः सर्वदापि तावन्मात्रैव। अधश्च क्रमशोऽनुभवतः क्षीयमाणेषु ३५ समयेधूपर्युपरि वर्धत इति ॥ ३० ॥ (उ०)—परिणामप्रत्ययात्परिणामहासलक्षणकारणादित्यर्थः-अनाभोगेनाभोगाभावेन गता देशविरतिपरिणामात्परिभ्रश्याविरतिं लगताः, सर्वविरविरतिपरिणामाच च्युत्वा देशविरतिमविरतिं वा गता भूयोऽपि तामेव प्रागभ्युपगतां देशविरतिं सर्वविरतिं वा प्रतिप द्यमाना अकरणा एवाकृतकरणा एव सन्तः प्रतिपद्यन्ते । ये त्वाभोगतो देशविरतेः सर्वविस्तेर्वा प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते भूयोऽपि जघन्यतोऽन्तर्मुहूर्तेन कालेनोत्कर्षतः प्रभूतेन कालेन देशविरतिं सर्वविरतिं वा प्रतिपत्तुमिच्छर उक्तरीत्या करणपुरटिस्सरमेव प्रतिपद्यन्ते । किंच यावद्देशविरतिं सर्वविरतिं वा प्रतिपालयन्ति तावदेषां देशविरतानां सर्वविरतानां वा गुणश्रेणिरपि | RESORDSites ISR 2TSAINIONEERSIONak
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy