________________
कर्मप्रकृतिः
॥२१॥
तथैव । नवरमिह गुणश्रेणिर्न वक्तव्या । अपूर्वकरणाद्धायां च परिसमाप्तायामनन्तरसमये नियमाद्देशविरतिं सर्वविरतिं वा प्रतिपद्यते । ततोऽनिवृत्तिकरणं तृतीयमिति नावाप्यते । इह यद्यविरतः सन् यथोक्ते करणे करोति ततो देशविरतिं सर्वविरतिं वा प्रतिपद्यते । अथ देशविरतस्तर्हि सर्वविरतिमेव । 'पच्छ' इत्यादि-द्वयोः करणयोर्गतयोः सतोः पश्वादेशविरतिं सर्वविरतिं वा प्रतिपन्नः सन् उदयाव लिकाया उपरि गुणश्रेणिमपि रचयति । तां च तावतीमन्तर्मुहूर्तप्रमाणां प्रतिसमयं दलिकरचनामधिकृत्या संख्येय गुण वृद्धा मारचयति । तथा देशविरतः सर्वविरतो वा स्वप्रतिपश्यनन्तरमन्तर्मुहूर्तं कालं यावदवश्यं प्रवर्धमानपरिणामो भवतितत उध्वं त्वनियमः । कोऽपि हि प्रवधमानपरिणाम एव भवति कोऽपि स्वभावस्थः कोऽपि हीनपरिणामः, तत्र स्वभावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न भवतः ।। २८-२९ ।।
( उ० ) - एतेषां चाविरतादीनां त्रयाणामप्येतल्लक्षणम्- यो व्रतानि न जानाति न चाभ्युपगच्छति नापि तत्पालनाय यतते सोऽज्ञानानभ्युपगमायतनाभिरविरतः । इह ज्ञानग्रहणपालनारूपपदत्रयेणाष्टौ भङ्गाः । स्थापना । तत्राद्येषु सप्तसु भङ्गेषु नियमादविरतो, यतो व्रतानि घुणाक्षरन्यायेन पालितान्यपि न फलवन्ति भवन्ति, किंतु सम्यग्ज्ञानसम्यग्रहणपुरस्सरं पालितानि । केवलं चतुष्वधिषु भङ्गेषु सम्यग्ज्ञानाभाव उत्तरेषु च सम्यग्ज्ञानानपायेऽपि सम्यग्ग्रहण सम्यक्पालनाभावः इति प्रथमेषु सप्तसु भङ्गेषु वर्तमानो नियमा दविरतः, चरमे तु भङ्गे वर्तमानोऽवद्यस्य पापस्य विरतेर्देशोपरमादेशयतिर्भवति, स चैकत्रतादि रेकव्रतग्राही द्विवतग्राहीत्येवं तावद्वाच्यो यावच्चरमोऽनुमतिमात्रः - परिपूर्णद्वादशव्रतधारी प्रत्याख्यातसकलसावद्यकर्मा केवलमनुमतिमात्र प्रतिसेवकः । अनुमतिरपि त्रिविधाप्रतिसेवनानुमतिः प्रतिश्रवणानुमतिः, संवासानुमतिश्च । तत्र यः स्वयं परैव कृतं पापं श्लाघते सावद्यारम्भनिष्पादितं वाऽशनाद्युपभुङ्क्ते
उपशमना
करणम्
देशसर्वविरतिप्रा
तिक्रमः
॥२१॥