SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ 550 deferrer विरयस्स वा ठितिघायरसघाया णत्थि, परिणामपच (या ठिइ)घायरसघाया णत्थि ||२९|| (मलय ० ) - एतेषां चाविरतादीनां त्रयाणामपीदं लक्षणं- 'अन्नाण' इत्यादि । तत्र यो व्रतानि न जानाति, न चाभ्युपगच्छति, न तत्पा | लनाय यतते, सोऽज्ञानानभ्युपगमायतनाभिरविरतः । अत्र च त्रिभिः पदैरष्टौ भङ्गाः । तत्राद्येषु सप्तषु भङ्गेषु नियमादविरतो, यतो व्रतानि घुणाक्षरन्यायेन पालितान्यपि न फलवन्ति भवन्ति किंतु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरपालितानि । तत्राद्येषु चतुर्षु सम्यग्ज्ञानाभावः, | उत्तरेषु च त्रिषु सम्यग्ग्रहणसम्यक्पालनाभावः, इति आद्येषु सप्तसु भङ्गेषु वर्त्तमानो नियमाद विरतः । चरमे तु भङ्गे वर्तमानो देशविरतो भवति, देशतोऽवद्यस्य पापस्य विरतेर्विरतिसद्भावात् । स चैकत्रतादिः एकत्रतग्राही. द्विवतग्राही, एवं तावज्ज्ञेयो यावच्चरमोऽनुमतिमात्रो ऽनुमतिमात्रसेवी । शेषं तु पापं सकलमपि तेन प्रत्याख्यातम् । अनुमतिरपि त्रिधा - प्रतिसेवनानुमतिः, प्रतिश्रवणानुमतिः, संत्रासानुम तिश्च । तत्र यः स्वयं परैव कृतं पापं श्लाघते, सावद्यारम्भोपपन्नं वाऽशनाद्युपभुङ्क्ते, तदा तस्य प्रतिसेवनानुमतिः । यदा तु पुत्रादिभिः कृतं पापं शृणोति श्रुत्वा चानुमन्यते, न च प्रतिषेधति, तदा प्रतिश्रवणानुमतिः । यदा पुनः सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं मम त्वमात्रयुक्तो भवति, नान्यत् किञ्चित्प्रतिशृणोति श्लाघते वा, तदा संवासानुमतिः । तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देश| विरतः, स चान्यसर्वश्रावकाणां गुणोत्तमः । यः पुनः संत्रासानुमतेरपि विरतः स यतिरित्युच्यते । कथं पुनर्देशविरति सर्वविरत्यो| लभिः १ उच्यते-'दोह' इत्यादि । द्वयोरपि देशविरतिसर्वविरत्योः प्रतिपत्तौ द्वे करणे यथाप्रवृत्त करणापूर्व करणाख्ये भवतः, न तु तृतीयमनिवृत्तिकरणम् । कथमिति चेत्, उच्यते-इह करणकालात्प्रागप्यन्तर्मुहूर्त यावत् प्रतिसमय मनन्तगुणवृद्धया विशुद्ध्या प्रवर्धमानोऽशुभानां कर्मणामनुभागं द्विस्थानकं करोतीत्यादि तदेव वक्तव्यं यावद्यथाप्रवृत्तं करणं, तदपि तथैव वक्तव्यम्, ततोऽपूर्वकरणं तदपि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy