SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ G (मलय.)-तदेवं कृताऽन्तरप्ररूपणा, संप्रति स्थानप्ररूपणां करोति–'सेढी'त्ति । इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं भवति । एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । त्रिभिर्वीर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा । एवं | तावद्वाच्यं यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति । तासां समुदायः प्रथमं स्पर्धकम् । ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि । तानि च तावद्वाच्यानि यावच्छेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति, ततस्तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि, यावत्सर्वोत्कृष्टं योगस्थानं भवति । इह द्वितीये योगस्थाने प्रथमे स्पर्धके प्रथमवर्गणायां जीवन-13 देशाः प्रथमयोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षया असंख्येयैर्वीर्याविभागैरधिकाः प्राप्यन्ते । तृतीयेऽपि योगस्थाने | प्रथमस्पर्धके प्रथमवर्गणायां जीवप्रदेशा द्वितीययोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येयैर्वीर्याविभागैरधिकाः प्राप्यन्ते । एवं सर्वेष्वपि द्रष्टव्यम् । तानि च योगस्थानानि सर्वाण्यपि कियन्ति भवन्तीतिचेद् ,उच्यते-श्रेण्यसंख्येयभागगतप्रदेशराशि| प्रमाणानि । ननु जीवानामनन्तत्वात्पतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते श्रेण्यसं| ख्येयभागगतप्रदेशराशिप्रमाणानीति ? नैष दोषः, यत एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्तमानाः स्थावरजीवा अनन्ताः प्राप्यन्ते । | ततः सर्वजीवापेक्षयापि सर्वाणि योगस्थानानि केवलिप्रज्ञया परिभाव्यमानानि यथोक्तप्रमाणान्येव प्राप्यन्ते, नोनाधिकानीति । कृताश OOGODNCE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy