________________
कर्मप्रकृति
५.२८॥
| स्थानप्ररूपणा । साम्प्रतमनन्तरोपनिधावसरः । तत्रोपनिधानमुपनिधा, धातूनामनेकार्थत्वान्मार्गणमित्यर्थः । अनन्तरेणोपनिधा अनन्तरोपनिधा, अनन्तरं योगस्थानमधिकृत्योत्तरस्य योगस्थानस्य स्पर्धकविषये मार्गणमित्यर्थः। तदेवाह-'फडग'इत्यादि। अतः प्रथमाद्योगस्था- बन्धननात् द्वितीयादिषुयोगस्थानेषु प्रत्येकं स्पर्धकानां परिवृद्धिरंगुलभागोऽसंख्येयतमः-अङ्गुलमात्रक्षेत्रसत्केऽसंख्येयतमे भागे यावान् प्रदेशरा
करणे शिस्तावत्प्रमाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयोत्तरस्मिन्नुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः । कथमेवं ज्ञायत
योगप्र
रूपणा. इति चेद् , उच्यते-इह प्रथमयोगस्थानगतवर्गणापेक्षया द्वितीययोगस्थानगतवर्गणा मूलत एव सर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभृतप्रभूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया पाप्यमाणत्वात् । ततोऽत्र विचित्रवर्गणाबाहुल्यसंभवतो यथोक्तं स्पर्धकबाहुल्यमुपपद्यत एव । एवमुत्तरोत्तरेष्वपि योगस्थानेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया स्पर्धकबाहुल्यं परिभावनीयमिति ॥९॥ | (उ०) तदेवं कृताऽन्तरप्ररूपणा, अथ स्थानप्ररूपणां करोति-श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि पूर्वोक्तस्पर्द्धकानि जघन्यं ||
योगस्थानं भवति । एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीयस्य | येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकैकवीर्याविभागवृद्ध्या श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा वाच्याः । तासां समुदायः प्रथमं स्पर्द्धकम् । ततः प्रागुपदर्शितदिशा द्वितीयादीन्यपि स्पर्द्धकानि वाच्यानि, यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति । तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितनीत्या तृतीयं | योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानमायाति । एतानि च सर्वाणि ॥२८॥ श्रेण्यसंख्येयभागगतप्रदेशप्रमाणानि भवन्ति । ननु जीवानामनन्तत्वादनन्तानि योगस्थानानि भवन्ति प्रतिजीवं योगस्थानसंभवादिति