________________
तस्य परपक्षपतितस्य वा मिध्यादृष्टित्वानपायादित्यलं प्रपञ्चेन ||२४||
मिछद्दिट्ठी नियमा उवइटुं पवयणं न सद्दहइ । सद्दहइ असम्भावं उवइटुं वा अणुवट्टं ॥ २५ ॥
(मलय ० ) - मिथ्यादृष्टेः स्वरूपमाह - 'मिछदिट्ठी 'ति । मिथ्यादृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमात् 'न श्रद्धते'- न सम्यग्भावेनात्मनि परिणमयति, श्रद्धत्ते चेत् उपदिष्टममुपदिष्टं वा प्रवचनं तर्हि 'असद्भूत' मिथ्यारूपमित्यर्थः श्रद्धत्ते, न सम्यग्यथावदिति । ( उ० ) - मिथ्यादृष्टेः स्वरूपमाह - मिध्यादृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमान्न श्रद्धत्ते - इदं तच्चमित्यात्मनि न सम्यक् प| रिगमयति, किं तूपदिष्टमनुपदिष्टं वा प्रववनमसद्भुतं विपरीतार्थं श्रद्धते, एकस्मिन्नपि प्रवचनार्थेऽभिनिवेशेनासद्भूतश्रद्धाने तदितरसकलसद्भुतार्थश्रद्धानस्याप्यश्रद्धान कल्पत्वात् । यच्चभिन्नमूत्रार्थचारिणो बहोरज्ञानतपसि पतनं स्वल्पस्य च मार्गानुसारित्वमुद्दृष्यते तदगीतार्थस्य गीतार्थानिश्रितस्यानभिनिवेशे सति फलमधिकृत्येति ध्येयम् ॥ २५ ॥
सम्मामिच्छद्दिट्ठी सागारे वा तहा अणागारे । अह वंजणोग्गहम्मि य सागारे होइ नायव्वो ॥ २६ ॥
(०) - सम्मामिच्छद्दिट्ठी सागारे वा अणागारे वा उवओगे भवति । 'अह वंजणोग्गहम्मि उत्ति-जति सागारे होति वंजणोग्गहो होइ ण अत्थोग्गहो होइ । जम्हा संसयनाणी अच्वत्तनाणी वुञ्चति ॥ २६॥
(मलय ० ) - ' सम्मामिच्छद्दिडि' त्ति - सम्यग्मिध्यादृष्टिरुपयोगे चिन्त्यमानः साकारोपयोगे वा भवति, अनाकारोपयोगे वा । यदि साकारोपयोगे तर्हि व्यञ्जनावग्रह एव व्यावहारिकेऽव्यक्तज्ञानरूपे भवति, नार्थावग्रहे । यस्मात्संशयज्ञानिप्रख्यो जिनप्रवचनानुरागवि
2