________________
उपशमना
कर्मप्रकृतिः ॥१८॥
करणम्
सो अन्तरकरणे ठिओ जाय" ॥२३॥
सम्मदिट्ठी नियमा उवइटुं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अजाणमाणो गुरुनियोगा ॥२४॥ | (चू०)-'सम्मट्ठिी नियमा' गाहासिद्धं ॥२४॥ __(मलय०)–सम्पति सम्यग्दृष्टेः स्वरूपमाह--'सम्मद्दिट्ठि' त्ति । सम्यग्दृष्टिीवो गुरुभिरुपदिष्टं प्रवचनं नियमात् यथावत् श्रद्धत्ते एव तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरपि 'असद्भावं' असद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन्-स्वयं सम्यक्परिज्ञानविकलः सन्, यद्वा गुरोस्तथाविधसम्यकपरिज्ञानवि कलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात् , नान्यथा ॥२४॥
(उ०)-अथ सम्यग्दृष्टिस्वरूपमाह-सम्यग्दृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमाद्यथावत् श्रद्धत्त एष तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरप्यसद्भावमसद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं परिज्ञानविकलः सन् यद्वा गुरोस्तथाविधसम्यक्प| रिज्ञानविकलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात् , नान्यथा । अत्र च साहजिकमज्ञानं ज्ञानावरणविपाकोदयसानिध्यमात्रादुपजायमानं न सम्यक्त्वप्रतिबन्धकम् । गुरुनियोगजनितं तु मध्यस्थस्य विनेयस्य नानामतदर्शिनो मिथ्यात्वप्रदेशोदयमहिम्ना विप्रतिपच्युपनीतप्रवचनार्थसंशयरूपं सम्यक्त्वप्रतिबन्धाभिमुखमपि तमेव सच्चमित्याद्यालम्बनरूपोत्तेजकमभावान सम्यक्त्वं प्रतिबद्धमलम्,इत्यज्ञानाद्गुरुनियोगाद्वाऽसद्भूतार्थश्रद्धानेपि भावतो जिनाज्ञाप्रामाण्याभ्युपगन्तुर्न शुभात्मपरिगामरूपसम्यक्त्वोपघात इति भावनीयम् । एतेन यदुच्यते केनचित् परपक्षनिश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवेति तदपास्तं द्रष्टव्यं, अनभिनिविष्टस्य मिथ्यादृष्टिनिश्रयाऽपि तदुपनीतासद्भूतार्थश्रद्धानस्यास्वारसिकत्वेन स्वारसिकजिनवचनश्रद्धानाविरोधित्वात् । अभिनिविष्टस्य तु स्वपक्षपति
उपशमसम्यक्त्वाधिकारः
॥१८॥