SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ S OSIATESek कक्षय इति । इहान्तरकरणादधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया। तत्र प्रथमस्थितौ वतमान उदीरणाप्रयोगेण प्रथमस्थितिसकं दलिकं समाकृष्य यदुदयसमये प्रक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशादुदीरणाप्रयोगेण समाकृष्योदये | प्रक्षिपति तस्या उदीरणाया अप्यागाल इति विशेषप्रतिपत्नये नामान्तरं पूर्वसूरिभिरुच्यते । उदयोदीरणाभ्यां च प्रथमस्थितिमनुभव॑स्ता| वद्गच्छति यावदावलिकाद्विकं शेष तिष्ठति, तस्मिंश्च स्थिते आगालः शान्तो भवाते-निवतत इत्यर्थः। ततः परं केवलैबोदीरणाप्रवर्तते. साऽपि तावद्यावदावलिकाशेपो न भवति । तस्यां च शेषीभृतायामुदीरणाऽपि शान्ता भवति । ततः केवलेनैवोदयेन तामावलिकामनु| भवति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य निवतते, तद्दलिकाभावात् , ततो मिथ्यात्वोदयनिवृत्तावुपशमाद्धायां प्रविशति, तस्यां चोपशमाद्धायां प्रविष्टस्य सतः प्रथमसमय एव मोक्षवीजमौपशमिकं सम्यक्त्वमुपजायते । उक्तं च-"आवलिमेत्त उदएण वेइउं ठाइ उबसमद्धाए। उपसमियं तत्थ भवे सम्मत्तं मोक्यवीयं " । इयं चोपशान्ताद्धा परिनिष्ठितान्तरकरणाद्धव. तदिदमुक्त अन्तरकरणप्रथमसमय एचौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावादिति ॥१६-१७॥ मिच्छतुदए खीणे लहए सम्मत्तमोवसमियं सो लंभेण जस्स ब्भइ आयहियमलद्धपुव्वं जं ॥१८॥ (च्०)–मिच्छत्तस्स उदते फिट्टे उवसमियं संमत्तं लभति। 'लम्भेण जस्सत्ति-सम्मत्तस्स लंभेण, 'लब्भति आयहियमलद्धपुव्वं जति-आयहियं-सदसणायि दि) संसारे ण लद्धपुब्वंति ॥१८॥ (मलय०) 'मिच्छत्तदए'त्ति-मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं लभते, 'यस्य'-सम्यक्त्वशस्य लाभेन यदात्महितमलब्धपूर्वमहदादितत्त्वप्रतिपच्यादि तल्लभते । तथाहि-सम्यक्त्वलाभे सति जात्यन्धस्य पुंसश्चक्षुर्लाभे इव |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy