SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४॥ ( उ० ) - अधुनाऽनिवृत्तिकरणस्वरूपमाह-यथापूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत्प्रवर्तमाना उक्ता एवमनिवृत्तिकरणेऽपि वक्तव्याः । तथा तुल्ये समाने काले यतः समा सर्वेषामपि तत्प्रविष्टानां विशोधिर्भवति, न विषमा, ततो नाम सान्वर्थं वक्तव्यमनिवृत्तिकरणमिति । इदमुक्तं भवति अनिवृत्तिकरणस्य प्रथमसमये ये वृत्ता ये वर्तन्ते ये च वर्तिष्यन्ते तेषां सर्वेषामप्यन्यूनाधि| कत्वेन समा विशोधिः, द्वितीयसमयेऽपि वृत्तवर्तमानवर्तिष्यमाणानां समा विशोधिः, प्रथमसमयभाविविशोध्यपेक्षया त्वनन्तगुणा, एवमनिवृत्तिकरण चरमसमयं यावद्वाच्यम् । तदेवमस्मिन् करणे प्रविष्टानां जीवानां तुल्यकालानामध्यवसायानां मिथो निवृत्तिस्तिर्य कृप दस्थानपतितवैषम्यलक्षणा नास्तीत्यनिवृत्तकरणमिति नाम । ऊर्ध्वमुखी त्वत्राध्यवसायस्थानानामनन्तगुणवृद्धिः सर्वेषु समयेषु विद्यते । अनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमे भागे शेषे तिष्ठति मिध्यात्वस्यान्तरकरणं करोति, अन्तरकरणं | नामोदयक्षणादुपरि मिध्यात्वस्थितिमन्तर्मुहूर्त्तमानामतिक्रम्योपरितनीं च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्तमानं तत्प्रदेशवेद्यदलिकाभाव| करणं, तनिष्पादनकालोऽप्यन्तरकरणकाल एव यथा तन्तुसंयोजनादिकालः पटकरण कालः सोऽप्यन्तर्मुहूर्त्त प्रमाणः प्रथम स्थितेः कि| चिन्न्यूनोऽभिनव स्थितिबन्धाद्धया समानः । तथाहि प्रथमस्थित्यन्तरकरणे द्वे अप्यन्तर्मुहूर्तप्रमाणे युगपदारभते. अन्तरकरणप्रथम समय | एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभ्य स्थितिबन्धान्तरकरणे युगपदेव परिसमापयति, अन्तरकरणे च क्रियमाणे गुणश्रेणिसम्ब | न्धिनः संख्ये या भागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति, एकं तु गुणश्रेणेः संख्ये यतमं भागमन्तरकरणदलिकेन सहोत्किरति विनाशयतीत्यर्थः । तदुत्किरण विधिश्वायम् - यदुतान्तरकरणस्थितेर्मध्याद्दलिकं कर्मपरमाण्वात्मकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति, उपरि द्वितीयस्थितौ च एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहूर्त्तेन च कालेन सकलतद्दलि मदन उपशमना करणम् उपशमस म्यक्त्वा धिकार: ॥१४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy