________________
द
| न्ते तेषामपि सर्वेषां परस्परं समा विशोधिः, नवरं प्रथमसमयभाविविशोध्यपेक्षयाऽनन्तगुणा । एवं तावद्वक्तत्र्यं यावदनिवृत्तिकरणचरमसमयः । तत एवमस्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतां परस्परमध्यवसानानां या निवृत्तिर्व्यावृत्तिः सा न विद्यत इत्यनिवृत्तिकरणमिति नाम । अस्मिवानिवृत्तिकरणे यावन्तः समयास्तावन्ति अध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि भवन्ति । 'संखिञ्ज' इत्यादि । अनिवृत्तिकरणाद्वायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिथ भागे संख्येयतमे शेषे तिष्ठति अन्तर्मुहूर्त मात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति । अन्तरकरणकालश्वान्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किञ्चिन्न्यूनोऽभिनवस्थितिबन्धाद्धया समः । तथाहि - अन्तरकरण प्रथमसमये एवान्यं स्थितिबन्धं मिथ्यात्वस्यारभते । स्थितिबन्धान्तरकरणे च युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणे: संख्येयतमं भागमन्तरकरणदलिकेन सहोत्किरति, उत्कीर्यमाणं च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति | अन्तरकरणाच्चाधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण प्रथमस्थितिसत्कं दलिकं समाकृष्योदयसमो प्रक्षिपति सा उदीरणा । यत्पुनः द्वितीयस्थितेः सकाशादुदीरणाप्रयोगेण समाकृष्योदये प्रक्षिपति स आगाल इति । उदीरणाया एव विशेषप्रतिपत्यर्थमिदं द्वितीयं नाम पूर्वमूरिभिरावेदितम् । उदयोदीरणाभ्यां च | प्रथमां स्थितिमनुभवन्तावद्गतो यावदावलिकाद्विकं शेषं तिष्ठति । तस्मिंश्च स्थिते आगालो न भवति, किन्तु केवलोदीरणैव । साप्युदीरणा तावद्यावदालिकाशेषो न भवति । आवलिकायां च शेषीभूतायामुदीरणापि निवर्तते । ततः केवलेनैवोदयेन तामावलि कामनुभ | वति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य विनिवर्तते, तद्दलिकाभावात् । तस्मिंश्चापगते सत्योपशमिकं सम्यक्त्वमचाप्नोति ॥ १६-१७ ॥