SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ SABRIDHIKARABARSANERA तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः। श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोचैः ॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमिव मरुदृक्षः। कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥७॥ तत्पदृगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ॥८॥ श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयाह्वयसूरिरासीत् । योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥९॥ श्रीमानकम्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुबजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ १०॥ तत्पभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्बभौ विजयसेन इति प्रतीतः। योऽकब्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि धुतिमानमानि ॥ ११॥ विजयतिलकः सूरिः पट्टे तदीयमदीदिप-दिनकर इव व्योमस्तोमं हरंस्तमसा क्षणात् । प्रसृमरमहाः पद्मोलासावहो जडतापहो, विदलितमहादोषः क्लप्तोदयः सुदिनश्रियाम् ॥ १२॥ १ श्रीमानकब्बरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । “" पुस्तके ॥ %
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy