SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ मुलम्-वंके वंकसमायारे, निअडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छदिदी अणारिए॥२५॥ चतुस्त्रिंश: मध्ययनम् उप्फालगदुद्रवाई अ, तेणे आवि अ मच्छरी। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥२६॥लागार व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूक मशक्यः, परिकुश्चकः खदोषप्रच्छादकः, उपधि-छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, |मिथ्यादृष्टिरनार्यश्च ॥ २५ ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुचये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥ २६॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७॥ पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८ ॥ व्याख्या-नीचैर्वृत्तिर्मनोवाकायैरनुत्सित्तोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः खभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ॥ २७ ॥ 'पिय' इत्यादि-तत्र 'वजभीरूत्ति' अवद्यभीरुर्हितैषको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy