________________
चतुर्विंशमध्ययनम्. गा२१-२२
विधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना। एवं पुनः पुननिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्यचिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एकासीइविहं वा तेआलादुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २० ॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ ___नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेस
तु परिणमे ॥ २२ ॥ व्याख्या-पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाकायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमर्दकत्वादिनेति शेषः, तीत्राः उत्कटाः खरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्त्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् ख्यादिर्वा ॥२१॥ 'निळ्धसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन्