________________
उत्तराध्ययन ॥५७०॥
|त्रयस्त्रिंशमध्ययनम्.
(३३) गा२२-२५
तेत्तीससागरोवम, उक्कोसेण विआहिआ।ठिई उ आउकम्मस्स, अंतोमुहत्तं जहणिआ २२
उदहिसरिसनामाणं, वीसई कोडिकोडिओ।नामगोत्ताण उक्कोसा, अहमुहत्ता जहणिआ २३ व्याख्या स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाहमूलम्-सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ। सवेसुवि पएसग्गं, सवज्जीवेसाइच्छिअं ॥२४॥ ___ व्याख्या-सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्तो, अयश्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सवजीवेसइच्छिअंति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह
मूलम्-तम्हा एएसि कम्माणं, अणुभागे विआणिआ।
एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ॥ २५॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय
॥५७०॥