________________
उत्तराध्ययन ॥५६॥
द्वात्रिंशमध्ययनम्.
(३२) गा १०२१०४
नपुंसवेअं विविहे अ भावे ॥ १०२ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो।
अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥ १०३॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरतिं अस्वास्थ्यं रतिं विषयासक्तिं हासं भयं शोकं पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुषाभिलाषलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्पविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेषवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, हीमान् लज्जावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोषमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तद्दोपदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२॥ १०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह
मूलम्-कप्पं न इच्छेज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं ।
एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥
च एवंविधानाधादिजनितान् विदीनः कारुण्यदा
॥५६२॥