SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५५४॥ द्वात्रिंशमध्ययनम्. गा ३२ व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पश्चान्नहीदं मया सुसं-| स्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच कथमयं सुरूपस्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' दुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविडम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोषस्य स्तेयस्य | इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यादितिशेषः । कीरशः सन् ? इत्याह-अनिश्रो दोषवत्तया कस्याप्यवष्टम्भेन रहितः, मैथुनावोपलक्षणं चैतत् ॥ ३१ ॥ उक्तमेवार्थ निगमयितुमाह मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ व्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः ? इत्याहयतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलाभलक्षणबाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्त्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालकारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगार्थ हि MASALAAMASOOMCAK ॥५५४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy