________________
गा११-१२
मूलम्-तत्तो अ वग्गवग्गो उ, पंचमओ छ?ओ पइण्णतवो ।
त्रिंशत्तममणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥
आमध्ययनम् व्याख्या-ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा | वर्गवगर्गो भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तपष्टिलक्षाः | सप्तसप्ततिः सहस्राणि द्वे शते पोडशाधिके [१६७७७२१६ ] एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं खशक्त्या यथाकथञ्चिद्विधीयते, तच नमस्कारसहि-४ तादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः ईप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः खर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः ॥ ११ ॥ सम्प्रति मरणकालमनशनमाह
मूलम्-जा सा अणसणा मरणे, दुविहा सा विआहिया ।
सवियारमवियारा, कायचिटं पई भवे ॥ १२॥