________________
एकोनत्रिंश मध्ययनम्. प्र ३४-३५
शय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः । यदुक्तं स्थानाङ्गे-"अहावरा दोचा सुहसेजा, से णं मुंडे- | भवित्ता अगाराओ अणगारियं पवइए समाणे सएणं लाभणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ॥ ३३ ॥ ॥ ३५ ॥ प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम्-उवहिपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ,
निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४ ॥ ३६ ॥ | व्याख्या-उपधेरुपकरणस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थः खाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको निष्कांक्षो वस्त्राद्यभिलापरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संक्लेशं नानुभवति । उक्तं हि-"तस्स णं भिक्खुस्स णो एवं भवइ, परिजुण्णे मे वत्थे सूई जाइस्सामि, संधिस्सामि" इत्यादि ॥ ३४ ॥ ३६ ॥ उपधिप्रत्याख्यातुर्जिनकल्पिकार्योग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपच्चक्खाणेणं जीविआसंसप्पओगं
वोच्छिदइ, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ३५॥३७