________________
१२
व्याख्या - कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासन्नकालभावि, अतीतप्रत्युत्पन्नं प्रायश्चित्तं प्रायश्चित्तार्हमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निवृत्तं स्वस्थीभूतं हृदयमस्येति निवृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा ह्यपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावात्या विहरति ॥ १२ ॥ १४ ॥ काय त्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह-
मूलम् - पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरुंभइ ॥ १३ ॥ १५ ॥
व्याख्या - प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच्च पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥ १५ ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाह-
मूलम् - थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्त बोहिलाभंजणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे अ णं जीवे अंतकिरिअं कप्पविमाणोववत्तिअं आराहणं आहे ॥ १४ ॥ १६ ॥
एकोनत्रिंश मध्ययनम्. प्र १३-१४