SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १२ स्तुषु विरज्यते, विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां तत्परित्यागं च कुर्वन् संसारमार्ग | मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग एव तत्त्वत आरम्भपरिहारसम्भवात्, तद्यवहित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥ २ ॥ ४ ॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाहमूलम् - धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजोगाई वुच्छे करेइ, अबाबाहं च सुहं निवत्तेइ ॥ ३ ॥ ५ ॥ व्याख्या - धर्मश्रद्धया सातं सातवेदनीयं तज्जनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं' खङ्गादिना 'भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्त्तयति जनयति ॥ ३ ॥ ५ ॥ धर्मश्रद्धावता च गुर्व्वादेः शुश्रूषाऽवश्यं कार्येति तामाह एकोनविंश मध्ययनम्. प्र ३
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy