________________
उत्तराध्ययन
॥५०५॥ १५
१८
२१
ष्टतरं 'हवंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बनाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिध्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह - 'सोहीएत्ति' शुद्धया प्रक्रमाद्दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति, उत्कृष्टदर्शनाराधनापेक्षमेतत्, यदुक्तं - “उक्कोसदंसणेणं भंते ! जीवे करहिं भवग्गहणेहिं सिज्झइ १ गोअमा ! उक्कोसेणं तेणेव, तइअं पुण नाइक्कमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते ॥ १ ॥ ३ ॥ संवेगादवश्यं निर्वेदः स्यादिति तमाह
मूलम् — निवेषणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु नित्रेअं मागच्छ, सविसएस विरज्जइ, सङ्घविसएस विरजमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडित्रपणे अ भवइ ॥ २ ॥ ४ ॥
व्याख्या - निर्वेदेन सामान्यतः संसारविरागेण कदाऽसौ याज्य इति धिया दिव्यमानुषतैरचेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकव
**
एकोनविंश मध्ययनम्. (२९) प्र २
॥५०५॥