________________
उत्तराध्ययन ॥५०॥
एकोनत्रिंश मध्ययनम्.
(२९)
|| क्त्वपराक्रमं नामाध्ययनमस्तीति शेषः । तच केन प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानखामिनैव प्रवेदितं, खतोविदितमेव भगवता ममेदमाख्यातमिति भावः । अस्यैव माहात्म्यमाह-जंति' यत्प्रस्तु
पून ताध्ययनं सम्यक् अवैपरीत्येन 'श्रद्धाय' शब्दार्थो भयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणा
दिना शुद्धं विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवादकुशलतया वा यावज्जीवं तदोंसेवनेन वा। ४ान चेदं खबुध्या शुभावहमित्याह-आज्ञया गुरुनियोगरूपयाऽनुपाल्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति इहै|वागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिवान्ति सकलकर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥१॥ अथ शिष्यानुग्रहार्थ सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाहमूलम्-तस्स णं अयमट्रे एवमाहिज्जइ, तंजहा-संवेगे १, निवेए २, धम्मसद्धा ३, गुरुसाहम्मि
यसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीस