SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४८८ ॥ १५ १८ २१ २४ कस्य कालं प्राभातिकं तुः पूत्तौं, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाच । इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्चैहावश्यकवृत्तेरवसेयः ॥ ४६ ॥ मूलम् — आगए कायवुस्सग्गे, सबदुक्खविमोक्खणे । काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं ॥ ४७ ॥ व्याख्या - आगते प्राप्ते कायभ्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - " काउस्सग्गे जह मुट्ठिअस्स, भजंति अंगमंगाई ॥ इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥ १ ॥ " तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह मूलम् — राइअं च अईआरं, चिंतिज्ज अणुपुवसो | नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ॥ ४८ ॥ व्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तव चिन्तनं प्रतितमेवेति नोक्तम् ॥ ४८ ॥ ततश्च - पशि मध्ययनम्. (२६) गा ४७-४८ ||४८८ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy