________________
उत्तराध्ययन
॥४७३ ॥
१५
१८
२१
२४
मूलम् — जे समुत्था समुद्धतुं परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सङ्घकामिअं ॥ ८ ॥ व्याख्या – ये समर्थाः समुद्धर्त्तु भवान्धेरिति गम्यं, 'सच्चकामिअंति' सर्वाणि काम्यान्यभिलषणीय वस्तूनि यत्र तत्काम्यं, षट्टसोपेतमित्यर्थः ॥ ८ ॥ एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्च चकारेत्याहमूलम् — सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्ठो नवि तुट्ठो, उत्तिमट्ठगवेसओ ॥ ९ ॥
व्याख्या - स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेषको मोक्षार्थीत्यर्थः ॥ ९ ॥ मूलम् - नन्नहं पाणहेउं वा, नवि निवारणाय वा । तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥ १० ॥ व्याख्यान नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थं तत्याह- तेषां याज्ञिकानां विमोक्षणार्थं इदं वचनमब्रवीत् ॥ १० ॥ किं तदित्याह
मूलम् नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं ।
नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥ ११ ॥ व्याख्या–नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखमु
पञ्चविंश
मध्ययनम्. (२५)
गा ८-११
॥ ४७३॥