SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्विंशमध्ययनम् ॥ चतुर्विंशमध्ययनम्, गा १-२ ॥ॐ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुविशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भापासमितिश्च प्रपचनमातृणामन्तर्गतेति तत्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव या पंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥ व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुप्तयः, आहिअत्ति' आख्याताः कथिताः॥१॥ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इअ। मणगुत्ती वयगुत्ती, कायगुत्ति अ अट्टमा ॥२॥ | म्याख्या-ईरणं गमनं ईर्या, भाषणं भाषा, एषणमन्नादिगवेषणमेषणा, आदानं पात्रादेग्रहणं, निक्षेपोपलक्षणमेतत् , उच्चारे उच्चारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इतिः समाप्तौ, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ॥२॥ निगमनमाह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy