SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४५७॥ १५ त्रयोविंशमध्ययनम्. (२३) गा २७ EHIS MESSAG9-2225 व्याख्या-'पुरिमत्ति' पूर्वे प्रथमजिनमुनयः ऋजवश्च प्राजलतयाँ जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च वक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडाः, चः समुच्चये, पश्चिमाः पश्चिमजिनयतयः। मध्यमास्तु मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः। एककार्यप्रपन्नत्वेऽपि इतिप्रक्रमः॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीदृशत्वं, तथापि कथमेतद्वैविध्यमित्याह मूलम्-पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ। कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तद्वाक्यं सम्यगवबोद्ध प्रभवन्तीति तुः पृत्तौ । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः। ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याम ज्ञातुं पालयितुं च क्षमाः। यदुक्तं-"नो अपरिग्गहिआए, इत्थीए ॥४५७॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy