________________
६
१२
दृष्ट्वा तदद्भुतं पूर्व- नष्टास्ते सार्थिका अपि ॥ उपेत्य तं यतिं नत्वा, श्राद्धधर्मं प्रपेदिरे ॥ ५२ ॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे दृढोऽभवत् ॥ अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥ ५३ ॥ सोऽपि स्तम्बेरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्ठादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ॥ ५४ ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् ॥ तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ॥ ५५ ॥ [ युग्मम् ]
इतश्च कमठोऽशान्त - कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा ऽत्युत्कटः कुक्कुटोरगः ॥ ५६ ॥ स भ्रमनेकदाऽपश्य-न्मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः - पातुं तपनतापितम् ॥ ५७ ॥ सोऽनेकपस्तदा पक्के - मज्जदैवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोड्डीय मस्तके ॥ ५८ ॥ ज्ञात्वाऽन्तं तद्विषावेशा- द्विधायाऽनशनं द्विपः ॥ वेदनां सहमानस्तां स्मरन् पञ्चनमस्त्रियः ॥ ५९ ॥ सप्तदशसागरायु - विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहस्रांशु-सहस्रांशुजयी रुचा ॥ ६० ॥ [ युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ ॥ बभूव नारकः सप्तदशसागरजीवितः ॥ ६१ ॥
"इतश्च” जंबूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्री पुरी नाम्ना, तिलका विजितालका ॥ ६२॥ नाना विद्युद्गतिस्तत्राऽभवत्खेचरभूधरः ॥ राज्ञी तु तस्य कनक - तिलका कनकच्छविः ॥ ६३ ॥ सोऽथ जीवः सामयोने-रष्टमस्वर्गतथ्युतः ॥ जज्ञे किरणवेगा-स्तयोः सूनुर्महाबलः ॥ ६४ ॥ क्रमादृद्धिं गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥ ६५ ॥ राज्ये स चान्यदा न्यस्तः, पित्रा खीकु
त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः
५२-६५