SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४३४॥ १५ १८ २१ २४ वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी ॥ वचोऽगोचरमापन्ना - ऽऽनन्दमेवमचिन्तयत् ॥ ३६३ ॥ किमाश्विनोऽसौ सूर्यो वा स्मरो वा मघवाऽथवा ॥ मर्त्यमूर्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ ३६४ ॥ भर्त्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ॥ ३६५ ॥ काहं किं जायते कोsसौ, कालस्तिष्ठाम्यहं क्व वा १ ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा ! ॥ ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मधु दक्षिणमीक्षणम् ॥ तच्चोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ ३६७ ॥ ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! ॥ इयतीं भुवमायातो न हि नेमिर्वलिप्यते ! ॥ ३६८ ॥ राजीमती जगौ जाने, खभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय - मुद्रोढा न तु मां प्रभुः ! ॥ ३६९ ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम् - अह सो तत्थ निजंतो, दिस्स पाणे भयहुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्ख ॥ १४ ॥ व्याख्या - अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् भयद्रुतान् भयत्रस्तान्, वाटैर्वाटकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियंत्रितान्, अत एव सुदुःखितान् १४ ॥ ॥ मूलम् - जीवीअंतं तु संपत्ते, मंसट्टा भक्खिअवए । पासित्ता से महापपणे, सारहिं पडिपुच्छइ ॥ १५ ॥ व्याख्या - जीवितान्तं मरणावसरं सम्प्राप्तान्, मांसार्थं मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हृदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं | हस्तिनः प्रवर्त्तकं हस्तिपकमित्यर्थः, प्रतिपृच्छति ॥ १५ ॥ द्वाविंशमध्ययनम् - (२२) श्रीनेमिना थचरित्रम् ३६३-३६९ गा १४-१५ ॥ ४३४ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy