SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४३॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् ३०२-३१५ RSANSARKARYAL अथान्यदा विभुः क्रीडन् , शस्त्रशाला हरेर्ययौ ॥ शाङ्गेच धनुरादित्सु-रारक्षेणैवमोच्यत ॥ ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ ३॥ तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् ॥ अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ ४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै-लीलयाऽधिज्यमातनोत् ॥५॥ तेनेन्द्रचापकल्पन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि-र्विश्वं विश्वमपूरयत् ॥६॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ ७॥ जनाईनोऽपि यां गृह्ण-नायासं लभते भृशम् ॥ हित्वा चक्र गदां ताम-प्युद्दधौ यष्टिवद्विभुः! ॥८॥ तां च मुक्त्वा पाञ्चजन्यः, खामिना योजितो मुखे ॥ स्मरेनीलारविन्दस्थ-राजहंसश्रियं दधौ ॥ ९ ॥ ध्माते च खामिना तस्मिन् , विश्वं बधिरतां दधौ ॥ चकपिरेऽचलाः सर्वे-ऽचलाप्यासीचलाचला ॥१०॥ चुक्षुभुर्वार्द्धयो वीरा, अप्युया मूर्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन, वित्रेसुस्त्रिदशा अपि ! ॥१॥ क्षुभितस्तवनेः सिंह-नादाद्गज इवाऽच्युतः ॥ इति दध्यावयं कम्बु-तिः केन महौजसा ? ॥ १२॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैःप्रजायते ॥१३॥ तद्वनी चक्रवर्ती वा, विष्णुर्वान्यः किमागतः ? ॥ तत्किं कार्य|मदो राज्यं, रक्षणीयं कथं मया ॥१४॥ ध्यायन्नित्यायुधारक्ष-रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे, १ क्षुब्धो ध्वानात्ततः सिंह-इति “घ” पुस्तके प्रथमपादः ॥ AAAASARAM ॥४३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy