________________
॥ अथ द्वाविंशमध्ययनम् ॥
द्वाविंशमध्ययनम् गा १-४
॥ॐ॥उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥
व्याख्या-राजलक्षणानि चक्रवस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥१॥ है मूलम्-तस्स भज्जा दुवे आसि, रोहिणी देवई तहा। तासिंदोण्हपि दो पुत्ता, इहा रामकेसवा ॥२॥
व्याख्या-'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २॥ मूलम्-सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥३॥ ___ व्याख्या-इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३॥ मूलम्-तस्स भजा सिवा नाम, तीसे पुत्ते महायसे। भयवं अरिटुनेमित्ति, लोगनाहे दमीसरे॥४॥
SSSSSSSSSSS