________________
विंशतितम. मध्ययनम् गा ७-९
% 5
मूलम्-तस्त पाए उ वंदित्ता, काऊण य पयाहिणं। नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥
व्याख्या-अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थं, 'नाइदूकरमणासन्नेत्ति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेपः ॥ ७॥
मूलम्-तरुणोऽसि अज्जो पवइओ,भोगकालंमि संजया।उवडिओऽसि सामण्णे, एअमटुं सुणामिता ८ ___ व्याख्या-तरुणोऽसि आर्य ! अत एव भोगकाले प्रव्रजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्व, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रसप्तकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥८॥ इत्थं राज्ञोक्ते मुनिराहमूलम्-अणाहोमि महाराय!, नाहो मज्झ न विजइ।अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥ ___ ब्याख्या-अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिंति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्र|जित इति भावः ॥९॥ एवं मुनिनोक्ते
CACARRORE