________________
१२
मूलम् —— एवं समुट्ठिते भिक्खू, एवमेव अणेगगो । मिगचारिअं चरित्ता णं, उड्डुं पक्कमई दिसिं ॥ ८२ ॥
व्याख्या - एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातङ्कोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्या निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्द्ध प्रक्रामति गच्छति दिशं सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयति-
मूलम् -- जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ ।
एवं मुणी गोअरिअं पविट्टे, नो हीलए नोवि अ खिंसइज्जा ॥ ८३ ॥
व्याख्या -यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं नापि च 'खिंसएजत्ति' निन्देदाहाराप्राप्तौ खं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्या - स्वरूपं निरुप्य यत्तेनोक्तं यच्च पितृभ्यां यचायं चक्रे तदाह
| मूलम् -- मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ८४
एकोनविंश मध्ययनम्. गा८२-८४