________________
एकोनविंश कामध्ययनम्.
गा४२-४५
AttronRRORere
व्याख्या-'निहुअनीसंकेति' निभृतं निश्चलं निश्शकं शरीरनिरपेक्षं यथा स्यात्तथा ॥ ४१ ॥ मूलम्-जहा भुआहिं तरिउं, दुक्करं रयणायरो। तहा अणुवसंतेणं, दुकरं दमसायरो ॥ ४२ ॥ __ व्याख्या-'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यासमुद्रोपमा, पूर्व तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ यतश्चैवं ततःमूलम्-भुंज माणुस्सए भोए,पंचलक्खणए तुमं।भुत्तभोगी तओ जाया!,पच्छा धम्म चरिस्ससि ॥४३॥ __व्याख्या-पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चवरूपान् , पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ॥४३॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराहमूलम्-सो बिंतम्मापिअरो! एवमेअं जहाफुडं। इह लोए निप्पिवासस्स,नत्थि किंचि विदुक्करं ॥४४॥ ___ व्याख्या-स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवयां तथैव, एतत् प्रव्रज्यादुष्करत्वं, यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्प नास्ति किञ्चिदतिकष्टमप्यनुष्ठानं, |अपिः सम्भावने, दुष्करम् ॥ ४४ ॥ निःस्पृहताहेतुमाहमूलम्-सारीरमाणसाचेव,वेअणाओ अणंतसो।मए सोढाओ भीमाओ,असई दुक्खभयाणि अ॥४५॥
+KASAA8