________________
उत्तराध्ययन ॥३९२॥
१२
एकोनविंश मध्ययनम्
गा
४-६
दोगुन्दको देव इव, चःपूतौं । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥३॥ मूलम्-मणिरयणकुहिमतले, पासायालोअणे ठिओ। आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥
व्याख्या-स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन् , प्रासादालोकने प्रासादगवाक्षे स्थितः,आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः॥४॥ ततो यदभूत्तदाहमूलम्-अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलड्ढे गुणआगरं ॥५॥ ___ व्याख्या-अथानन्तरं तत्र तेषु त्रिकादिपु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥ ५॥ मूलम्-तं देहइ मिआपुत्ते, दिट्टीए अणिमिसाए उ। कहिं मन्नेरिसं रूवं, दिट्टपुष्वं मए पुरा॥६॥
व्याख्या-तं मुनि देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उत्ति' अनिमिषयैव, क्व मन्ये जाने ईशं रूपं रष्टपूर्व, पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥६॥
॥३९॥