________________
*******64-65453
॥ अथ एकोनविंशमध्ययनम् ॥
एकोनविंश
मध्ययनम्.
लगा १-३ ॥ अहम् ॥ उक्तमष्टादशमध्ययनं, अर्थकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगर्द्धित्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभदत्ति, मिआ तस्सग्गमाहिसी ॥१॥
व्याख्या-सुग्रीवे सुग्रीवाढे, काननानि वृहदृक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नानी तस्याग्रमहिषी प्रधानपत्नी ॥१॥ मूलम्-तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ | व्याख्या-तयोः पुत्रो बलश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोदयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥ २॥ मूलम्-नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइअमाणसो ॥३॥ ___ व्याख्या-नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव ?