SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३८४ ॥ १५ १८ २१ २४ एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ॥ १२३ ॥ तामानेतुं ततो दूतं, प्रैषीत्प्रद्योत भूधवः ॥ सुवर्णगुलिका तं च, व्याजहारेति मानिनी ॥ १२४ ॥ मामाहातुमिहायातु, स राट् पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति कामिनं न हि कामिनी ! ॥ १२५ ॥ इति तद्वचनं दूतो गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुयानलगिरिं तत्र रात्रावुपागमत् ॥ १२६ ॥ तं च प्रेक्ष्यानुरक्ता सा प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ॥ १२७ ॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः । तामानयामि त्वचेतो मानयामि मनखिनि ! ॥ १२८ ॥ इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर - प्रतिमां च व्यधापयत् ॥ १२९ ॥ [ युग्मम् ] ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ॥ १३० ॥ दन्तिनं तं बहिर्मुक्त्वा, तामर्चामुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा - ऽविशत्का कामिनां हि भीः ? ॥ १३१ ॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासीं देवदत्ताह्नां हृत्वा स खपुरीमगात् ॥ १३२ ॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥ १३३ ॥ गन्धः स च यतोऽभ्यागा-तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धगुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥ १३४ ॥ अजानिव | गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तखान्ततां दधुः ॥ १३५ ॥ विमदास्ते द्विपाः | सर्वे ऽवन्तिमार्गदिशं विभो ! ॥ मुहुर्विलोकयन्तीति तेऽथ राज्ञे व्यजिज्ञपन् ॥ १३६ ॥ भूसुत्रामा ततस्तत्र, न्ययुं अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा |१२३-१३६ ॥ ३८४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy