________________
षोडशमध्ययनम् गा ५.८
ग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव कार्यों न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं-"अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥ इति ॥ ४ ॥ मूलम्-कुइअं रुइअं गीअं, हसिअं थणिअकंदिअं। बंभचेररओ थीणं, सोअगिज्झं विवजए ॥५॥ - व्याख्या कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ ५॥ मूलम्-हासं किड्डे रइं दप्पं, सहसावत्तासिआणि अ।बंभचेररओ थीणं, नाणुचिंते कयाइवि॥६॥ ___ व्याख्या-हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च परामुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेष व्यक्तं ६ मूलम्-पणिअं भत्तपाणं च, खिप्पं मयविवडणं। बंभचेररओ भिक्खू , निच्चसो परिजए ॥७॥
व्याख्या--स्पष्टं, नवरं-मदः कामोद्रेकः ॥ ७॥ मूलम्-धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवज्जा, बंभचेररओसया ॥८॥
व्याख्या-धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं “अद्धमसणस्स सबंजणस्स कुजा दवस्स |दो भाए ॥ वाऊ परिआरणट्ठा छन्भागं कृणगं कुजा ॥१॥” इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्र