________________
उत्तराध्यबनसूत्रम् ॥४३॥
अध्य०१८ ॥४३॥
रासस
मिततेजसा ॥ आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ॥ १७५ ॥ ततः सुतारामादाय, सीमाद्री सो ययौ द्रुतम् ॥ अर्थयामास तां च श्री-विजयामिततेजसोः १७६ तदा च क्षमयामासा-शनिघोषोऽपि तौ मुदा ॥ अथ तेषां पुरश्चक्रे देशनामचलप्रभुः॥१७७॥ देशनान्ते च रामर्षि-मित्यूचेऽशनिघोषराट् ॥ न मया दुष्टभावेन, सुताराऽपहता प्रभो ! ॥१७८॥ किन्तु प्रतारणीविद्या, साधयित्वां गृहं व्रजन् ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ॥ १७६ ॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम वचोऽतिगम् ॥ | बिहायैनां पुरो गन्तु, ततोऽहं नाऽभवं प्रभुः ॥१८॥ पार्श्व स्थिते श्रीविजये, नैनां हत्तु महं क्षमे ॥ प्रतार्येति प्रतारण्या, नृपमेनामपाहरम् ॥१८॥ अमूमपापां चामुञ्च-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं वचसापि न ॥ १८२ ॥ तब्रू हि भगवनस्यां, किं मम प्रेमकारणम् ॥ श्रीषेणादीनां ततस्तां, कथामुक्त्वेत्यवग् मुनिः ॥ १८३॥ श्रीषेणसत्यभामाभि-नन्दिताशिखिनन्दिताः विपद्य युग्मिनोऽभूवं-स्ततो मृत्वाऽभवन् सुराः॥१८४ ॥ च्युत्वा ततोऽपि श्रीषेणो-ऽमिततेजा अभूदसौ ॥ ज्योतिःप्रभाह्वा भार्यास्य, जज्ञे सा शिखिनन्दिता ॥१८॥ जीवोऽभिनन्दितायास्तु सोऽयं श्रीविजयोऽभवत् । तस्य पत्नी, सुतारेयं, भामाजीवस्त्वजायत ॥१८६॥ कपिलस्तु ततो मृत्वा, भ्रान्त्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म-रतोऽभूद्धर्मिलाभिधः ॥१८७॥ स च बालतपस्तीव्र कुर्वनारभ्य बाल्यतः ॥ खे यान्तमन्यदाऽपश्यत् खेचरं परमर्धिकम् ॥१८८ ॥ अमुष्मात्तपसो भावि भवे भूयासमीदृशः ॥ निदानमिति सोऽकापी--मृत्वा च त्वमभूस्ततः ॥१८६॥ ततः प्राग्भवसम्बन्धात्, स्नेहोऽस्यां भवतोऽभवत् ॥ शतशोऽपि भवान् याति, संस्कारः स्नेहवैरयोः ॥१६० ॥ श्रुत्वेति विस्मितेष्वन्तः, सकलेष्वर्ककीर्तिसूः ॥ भव्योऽस्मि यदि वा नास्मी-त्यपृच्छत्तं मुनिप्रभुम् ॥१६१ ॥ साधुरूचे भवादस्मा-भावी त्वं नवमे भवे ॥ क्षेत्रेन पञ्चमश्चक्री, धर्मचक्री च षोडशः॥१२॥ तस्मिन् भवे श्रीविजयो
Vegeveeeeeeeeeeeeeeeeeee