________________
उत्तराध्य
यनसूत्रम् ॥१६३॥
व्याख्या – 'अमलति' श्रद्धामालिन्यहेतुमिध्यात्वादिभावमलरहिताः, तथा 'असंक्लिष्टाः' रागादिसंक्लेशमुक्ताः 'परिचसंसारिति ' परितः - परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परिचसंसारिणः ॥ २५ ८ || 'बालमरणैः' 'उद्बन्धनादिनिबन्धनैः 'बहुशो' बहुवारं श्रकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुव्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षत्वानानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥ २५६ ॥ यतश्चैत्रमतो जिनवचनं भावतः कर्त्तव्यं तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोम्यानां श्रावणीया, ते च यैर्हेतुभिर्भवन्ति तानाह
मूलम् — बहुआगमविण्णाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा लोणं सोउं ॥
व्याख्या— बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्वागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, 'समाघेरुत्पादका' ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति चशब्दो भिन्नक्रमस्ततो 'गुणग्राहिणश्च' उपबृंहणार्थं परेषां सद्भूतगुणग्रहणशीलाश्च, 'एएण कारणेणंति' एतैः कारणैः अर्हा भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६० ॥ इत्थमनशनस् यत्कृत्यं तदुपदर्श्य सम्पति पूर्वोद्दिष्टकन्दर्पादिभावनानां स्वरूपमाह -
मूलम् — कंदष्पकुक्कुआई, तह सीलसहावहासविगहाहिं । विम्हायंतो अपरं, कंदप्पं भावणं कुणइ ॥२६१
व्याख्या– कन्दर्प्यकौक्रुच्ये कुर्वन्निति शेषः, तत्र कन्दर्प्यः - श्रट्टहासहसनं अनिभृताश्वालापा गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाथ कन्दर्पः, उक्तं च- 'कहकहकहस्स हसणं, कंदप्पो अणिहुआ य आलावा । कंदप्यकहाकहणं, कंदप्युवएससंसा य
eeve
अध्य० ३६ ॥१६३॥