________________
उचराध्य
यनसूत्रम्
॥१०५॥
'श्रासवानां' पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, मधु - मद्यविशेषो मैरेयं-परकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, तो वारुण्यादिरसात् पद्माया रसः ' परकेण' अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, श्रयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ १५ ॥ गन्धमाह
मूलम् —जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एतो विश्रांतगुणो, लेसाणं अप्पसत्थाणं १६॥ जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि श्रणंतगुणो पसत्थलेसाण तिरहं पि
व्याख्या – “गंधवासाणंति” गन्धाश्च - कोष्टपुटपाकनिष्पन्ना आसाश्वेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि तेषां ‘पिष्यमाणानां’ चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः “पसत्थलेसाणंति" प्रशस्तलेश्यानां तेजः - पद्म - शुक्लानाम् । इह चानुतोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थ ॥ १७ ॥ स्पर्शमाह -
मूलम् - जह करगयस्स फासो, गोजिब्भाए व सागपत्ता । एत्तोवि अांतगुणो, लेसाणं अप्पसत्थाय १८ जह बूरस्स व फासो, नवणोअस्स व सिरीसकुसुमाखं । एत्तोवि अणंतगुणणे, पसत्थलेसाण तिरपि ॥ १६ ॥
व्याख्या—यथा “करगयस्सत्ति" क्रकवस्य स्पर्शो गोजिह्वायाः शाको - वृत्तविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः । इतोप्यनन्तगुणः कर्कशः लेश्यानां प्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥ यथा धूरस्य वनस्पतिविशेवस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ १६ ॥ परिणामद्वारमाह
अध्य० ३४ ॥१०५॥