________________
काअध्य० २६
॥३ ॥
उचराध्ययनसूत्रम् ॥३५॥
मनोद्रव्यसाचिव्यजनितं जीवव्यापार निरुणद्धि, तं निरुध्य 'बाग्योग' भाषाद्रव्यसानिध्यनिर्मितं जीवव्यापार निरुणद्धि, तं च निरुध्य "आणापाणनिरोहंति" आनापानौ-उच्छवासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा 'ईपदिति स्वल्पप्रयत्नेन पञ्चानां हस्वाक्षराणां अ-इ--उ-ऋ-ल-इत्येवंरूपाणां उच्चारो-भणनं तस्याद्धा-कालो यावता ते उच्चार्यन्ते सा ईषत्पञ्चह्रस्वाक्षरोच्चारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन शैलेश्यवस्थामनुभवन्निति भावः । हस्वाक्षरोच्चारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति ॥ ततो वेदनीयादिक्षपणानन्तरं "ओरालिक कम्माई चत्ति" औदारिककामणे शरीरे चशब्दात्तैजसं च सर्वाभिः “विप्पजहणाहिति" विशेषेण-प्रकर्षतो हानया-त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः, बहुवचनं चात्र व्यक्त्यपेक्षं, 'विप्रहाय' परिशाटय ऋजु:-अवका श्रेणिः-आकाशप्रदेशपंक्तिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थ, 'ऊद्धर्वम् 'उपरि एकसमयेन द्वितीयादिसमयास्पर्शेन 'अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाम्यामुक्तोर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, 'तत्रेति' विवक्षिते मुक्तिपदे गत्वा 'साकारोपयुक्तो' ज्ञानोपयोगवान् सिध्यतीत्यादि प्रागवत् इति त्रिसप्ततिस्त्रार्थः ॥७२॥७४॥७३॥७॥ उपसंहत्तु माहमूलम् एस खलु सम्मत्तपरक्कमस्स अझयणस्स अट्टे समणे भगवया महावीरेणं भाषिए पगणविए परूविए निर्देसिए उवदंसिएत्ति बेमि ॥७६॥
AARE
VEGVERBEVEE VAY