________________
उत्तराध्य
यनसूत्रम्
॥२४५॥
परं, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ॥ २६ ॥ स किमित्याह – “पडिलहेणापमत्तोत्ति " मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति पण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथः कथादीनि त्याज्यानि इति भावः ॥ ३० ॥ [ प्रतिलेखनायां प्रयुक्तः सावधानोऽप्रमादी साधुः पृथ्वीव्यादीनां परणामपि कायानां आराधको भवति ।। ३१ ।। ] इत्थं प्रथमपौरुषीकृत्यमुक्त, द्वितीयपौरुषीकृत्यं तु 'बीइअं भाणं श्रियइ' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्त्तव्यं । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्कापोहार्थमाहमूलम् - इआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्ठिए ॥ ३२ ॥ - वेवच्चे, इरिट्ठाए अ संजमट्ठाए। तह पाणवत्तित्राए, छट्ठ पुण धम्मचिंताए ॥ ३३ ॥ व्या॰—स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहु: - " सइ काले चरे भिक्खु, कुज्जा पुरिसकारि ॥ श्रलाभुत्ति न सोइज्जा, तबुत्ति अहियास १ चि " । छरहमित्यादि - पण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ ३२ ॥ कारणषट्कमेवाह – “ वेणत्ति " वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं १ । “ वेश्रवच्चेत्ति " तुधादिबाधितो वैयावृत्त्यं कत्तु क्षमो न स्यादिति वैयावृत्त्याय २ । तथा ईर्यासमितिः सैवार्थस्तस्मै, चः समुच्चये, क्षुत्तृषाकुलस्य हि चतुर्भ्यामपश्यतोऽसौ दुष्करेति ३ । तथा 'संयमार्थाय ' संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छ महाकच्छादीनामिव संयमो दुरनुपालः स्यादिति ४ । तथा ' प्राणप्रत्ययं ' प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि
अध्य०२६ ॥२४५।।